|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.17. अध्यायः 017
अथानुगीतापर्व ॥ 2 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
अर्जुनेन कृष्णंप्रति पूर्वोपदिष्टगीतार्थस्य विस्मरणोक्त्या पुनस्तदुपदेशप्रार्थना॥ 1 ॥ कृष्णेनार्जुनंप्रति स्वस्मै ब्राह्मणोक्तसिद्धकाश्यपसंवादानुवादः॥ 2 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
जनमेजय उवाच।
सभायां वसतोस्तत्र निहत्यारीन्महात्मनोः।
केशवार्जुनयोः का नु कथा समभवद्द्विज॥ 14-17-1(92810)
वैशम्पायन उवाच। 14-17-2x(7799)
कृष्णेन सहितः पार्थः स्वं राज्यं प्राप्य केवलम्।
तस्यां सभायां दिव्यायां विजहार मुदा युतः॥ 14-17-2(92811)
तत्र कञ्चित्सभोद्देशं स्वर्गोद्देशसमं नृप।
यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ॥ 14-17-3(92812)
ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः।
निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत्॥ 14-17-4(92813)
विदितं मे महाबाहो सङ्ग्रामे समुपस्थिते।
महात्म्यं देवकीपुत्र तच्च ते रूपमैश्वरम्॥ 14-17-5(92814)
यत्तु तद्भवता प्रोक्तं पुरा केशव सौहृदात्।
तत्सर्वं पुरुषव्याघ्र नष्टं मे व्यग्रचेतसः॥ 14-17-6(92815)
मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः पुनः।
भवांस्तु द्वारकां गन्ता नचिरादिव माधव॥ 14-17-7(92816)
वैशम्पायन उवाच। 14-17-8x(7800)
एवमुक्तस्तु तं कृष्णः फाल्गुनं प्रत्यभाषत।
परिष्वज्य महातेजा वचनं वदतांवरः॥ 14-17-8(92817)
वासुदेव उवाच। 14-17-9x(7801)
श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम्।
धर्मं स्वरूपिणं पार्त सर्वलोकांश्च शाश्वतान्॥ 14-17-9(92818)
अबुद्ध्या यन्न गृह्णीतास्तन्मे सुमहदप्रियम्।
न च साऽद्य पुनर्भूयः स्मृतिर्मे सम्भविष्यति॥ 14-17-10(92819)
नूनमश्रद्दधानोऽसि दुर्मेधा ह्यसि पाण्डव।
न च शक्यं पुनर्वक्तुमशेषेण धनंजय॥ 14-17-11(92820)
स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने।
न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः॥ 14-17-12(92821)
परं हि ब्रह्म कथितं योगयुक्तेन तन्मया।
इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम्॥ 14-17-13(92822)
यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि।
शृणु धर्मभृतांश्रेष्ठ गदतः सर्वमेव मे॥ 14-17-14(92823)
आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिंदम।
ब्रह्मलोकाच्च दुर्धर्षः सोस्माभिः पूजितोऽभवत्॥ 14-17-15(92824)
अस्माभिः परिपृष्ठश्च यदाह भरतर्षभ।
दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन्॥ 14-17-16(92825)
ब्राह्मण उवाच। 14-17-17x(7802)
मोक्षधर्मं समाश्रित्य कृष्ण यन्माऽनुपृच्छसि।
भूतानामनुकम्पार्थं मन्मोहच्छेदनं विभो॥ 14-17-17(92826)
तत्तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन।
शृणुष्वावहितो भूत्वा गदतो मम माधव॥ 14-17-18(92827)
कश्चिद्विप्रस्तपोयुक्तः काश्यपो धर्मवित्तमः।
आससाद द्विजं कंचिद्धर्माणामागतागमम्॥ 14-17-19(92828)
गतागमं सुबहुशो ज्ञानविज्ञानपारगम्।
लोकतत्त्वार्थकुशलं ज्ञातरं सुखदुःखयोः॥ 14-17-20(92829)
जातिस्मरणतत्त्वज्ञं कोविदं पापपुण्ययोः।
द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम्॥ 14-17-21(92830)
चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम्।
दीप्यमानं श्रिया ब्राह्मया क्रममाणं च सर्वशः॥ 14-17-22(92831)
अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः।
तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह॥ 14-17-23(92832)
सम्भाषमाणमेकान्ते समासीनं च तैः सह।
यदृच्छया च गच्छन्तमसक्तं पवनं यथा॥ 14-17-24(92833)
तं समासाद्य मेधावी स तदा द्विजसत्तमः।
चरणौ धर्मकामो वै स तस्य सुसमाहितः।
प्रतिपदे यथान्यायं भक्त्या परमया युतः॥ 14-17-25(92834)
विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम्।
परिचारेण महता गुरुं तं पर्यतोषयत्॥ 14-17-26(92835)
उपपन्नं च तत्सर्वं श्रुतचारित्रसंयुतम्।
भौमेनातोषयच्चैनं गुरुवृत्तिं समास्थितः॥ 14-17-27(92836)
तस्मै तुष्टः स शिष्याय यत्प्रसन्नोऽब्रवीद्गुरुः।
सिद्धिं परामभिप्रेक्ष्य शृणु मत्तो जनार्दन॥ 14-17-28(92837)
सिद्ध उवाच। 14-17-29x(7803)
विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः।
गच्छन्तीह गतिं मर्त्या देवलोके च वा स्थितिम्॥ 14-17-29(92838)
न क्वचित्सुखमत्यन्तं न क्वचिच्छाश्वती स्थितिः।
स्थानाच्च महतो भ्रंशो दुःखलब्दात्पुनः पुनः॥ 14-17-30(92839)
अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात्।
काममन्युपरीतेन तृष्णया मोहितेन च॥ 14-17-31(92840)
पुनः पुनश्च मरणं जन्म चैव पुनः पुनः।
आहारा विविधा भुक्ताःपीता नानाविधाःस्तनाः॥ 14-17-32(92841)
मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः।
सुखानि च विचित्राणि दुःखानि च मयाऽनघ॥ 14-17-33(92842)
प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह।
धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम्॥ 14-17-34(92843)
अवमानाः सुकष्टाश्च परतः स्वजनात्तथा।
शारीरा मानसा वाऽपि वेदना भृशदारुणाः॥ 14-17-35(92844)
प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः।
पतनं निरये चैव यातनाश्च यमक्षये॥ 14-17-36(92845)
जरारोगाश्च सततं व्यसनानि च भूरिशः।
लोकेऽस्मिन्ननुभूतानि द्वन्द्वजानि भृशं मया॥ 14-17-37(92846)
ततः कदाचिन्निर्वेदान्निकारान्निकृतेन च।
लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया॥ 14-17-38(92847)
लोकेऽस्मिन्ननुभूयाहमिमं मार्गमनुष्ठितः।
ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया।
नाहं पुनरिहागन्ता लोकानालोकयाम्यहम्॥ 14-17-39(92848)
आसिद्धेराप्रजासर्गादात्मनोपि गतीः शुभाः।
उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा॥ 14-17-40(92849)
इतः परं गमिष्यामि ततः परतरं पुनः।
ब्रह्मणः पदमव्यक्तं मा तेऽभूतत्र संशयः॥ 14-17-41(92850)
नाहं पुनरिहागन्ता मर्त्यलोकं परन्तप।
प्रीतोस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते॥ 14-17-42(92851)
यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः।
अभिजाने च तदहं यदर्थं मामुपागतः॥ 14-17-43(92852)
अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम्।
भृशं प्रीतोस्मि भवतश्चारित्रेण विचक्षण॥ 14-17-44(92853)
परिपृच्छ यावद्भवतो भाषे यद्यत्तवेप्सितम्॥ 14-17-45(92854)
बहुमन्ये च ते बुद्धिं भृशं सम्पूजयामि च।
येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप॥ ॥ 14-17-46(92855)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्तदशोऽध्यायः॥ 17 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-17-19 आगतागमं प्राप्तशास्त्ररहस्यमूहापोहकुशलमित्यर्थः॥ 7-17-43 बहुमन्ये भृशं पूजये। अहमन्तर्धानगतोऽपि यतस्त्वया ज्ञातः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|